SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ COCCAKAKAASCANCocock 'कति णं भंते!' इत्यादि, कति भदन्त ! वेलन्धरनागराजा: प्रज्ञप्ताः ?, भगवानाह-चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथा-11 गोस्तूपः शिवकः शङ्खो मन:शिलाकः ॥ 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णी वेलन्धरनागराजानां कति आवासपर्वताः प्रज्ञप्ता: ?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वार आवासपर्वता: प्रज्ञप्तास्तद्यथा-गोस्तूप उदकभासः शङ्खो दकसीमः ॥ 'कहि णं भंते !' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वानाचत्वारिंशतं योजनसहस्राण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि एकविंशान्यू मुच्चैस्त्वेन, चत्वारि योजनशतानि त्रिंशदधिकानि क्रोशं चैकमुद्वेधेन, उच्छ्रयापेक्षयाऽवगाहस्य चतुर्भागभावात् , मूले दश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरि चत्वारि योजनशतानि चतुविशत्युत्तराणि, मले त्रीणि योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किश्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहस्रे द्वे च योजनशते चतुरशीते किञ्चिद्विशेषाधिक परिक्षेपेण, उपर्येक योजनसहस्रं त्रीणि योजनशतानि एकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततो मूले विस्तीणों मध्ये सजिप्त उपरि तनुकः, अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकारत्वात् , सर्वासना जाम्बूनदमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् ॥ से णमित्यादि, 'सः' गोस्तूपनामा आवासपर्वत एकया पद्मवरवेदिकया एकेन च वनषण्डेन 'सर्वतः' सर्वासु दिक्ष 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि चानयोर्वेदिकावनषण्डयोवर्णकः प्राग्वत् ॥ 'गोथभस्स णमित्यादि, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभाग: प्रज्ञप्तः, ‘से जहा नामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वद् यावत्तत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति ॥ 'तस्स णमित्यादि, तस्य बहुसमर ॐॐॐॐॐॐ Jain Education in For Private Personal Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy