________________
Jain Education Inte
व्यवस्थितत्वात्, उक्तं च सूर्यप्रज्ञप्तौ – “जया णं लवणसमुद्दे दाहिणडे दिवसे भवइ तथा णं उत्तरडेवि दिवसे हवइ, जया णं उत्त रढे दिवसे हवइ तया णं लवणसमुहे पुरत्थिमपञ्चत्थिमेणं राई भवइ, एवं जहा जंबूदीवे दीवे तहेव” तथा “जया णं धायईसंडे दीवे | दाहिणढे दिवसे भवइ तथा णं उत्तरडेवि, जया णं उत्तरडे दिवसे हवइ तया णं धायइसंडे दीवे मंदराणं पञ्चयाणं पुरत्थिमपञ्चस्थिमेणं राई हवइ, एवं जहा जंबूद्दीवे दीवे तहेव, कालोए जहा लवणे तहेव" तथा "जया णं अभितरपुक्खरद्धे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्डे दिवसे हवइ, जया णं उत्तरडे दिवसे हवइ तथा णं अभितरडे मंदराणं पव्त्रयाणं पुरस्थिपञ्चत्थिमेणं राई हवइ, सेसं जहा जंबूद्दीवे तहेव" आह- लवणसमुद्रे पोडश योजनसहस्रप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघातः ?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि यानि पुनर्लवणसमुद्रे ज्योतिष्क विमानानि तानि तथाजगत्स्वाभाव्यादुदकस्फाटनस्वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रज्ञप्तिनिर्युक्तौ – “जोइसियविमाणाईं सव्वाई हवंति फलिहमइयाई । दुगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच्च शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथाजगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीप्रन्थ उपदर्श्यते— “सोलससाहसियाए सिहाए कहूं जो इसियविघातो न भवति ?, तत्थ भन्नइ - जेण सूरपन्नत्तीए भणियं - "जोइसियविमाणाई सव्वाई हवंति फंलिहमइयाई । दुगफालिया | मया पुण लवणे जे जोइसविमाणा || २ ||" जं सव्वदीवसमुद्देसु फालियामयाई लवणसमुद्दे चेव केवलं दगफालियामयाई तत्थ इद
For Private & Personal Use Only
Mainelibrary.org