________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २९९ ॥
Jain Education Inter
सिद्धायतनानि पूर्ववद्वाच्यानि, उक्तञ्च - "अङ्कुसहकूडसरिसा सब्वे जंबूनयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥ १ ॥" 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया द्वादश नामधेयानि प्रज्ञतानि तद्यथा - 'सुदंसणे' त्यादि, शोभनं दर्शनंदृश्यमानता यस्या नयनमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽये स्वयमेव सूत्रकृद् भावविष्यति, 'अमोहा य' इति मोघं निष्फलं न मोघा अमोघा अनिष्फला इत्यर्थः तथाहि--सा स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, ततोऽनिष्फलेति २, 'सुप्पबुद्धा' इति सुष्ठु - अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरत्नानां निरन्तरं सर्वतञ्चाकचिक्येन सर्वकालमुन्निद्रेति भावः ३, 'जसोहरा' इति यशः सकलभुवनव्यापि धरतीति यशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जत्रोपलक्षितस्ततो भवति यथोक्तं यशोधारित्वमस्या: ४, 'सुभद्दा य' इति शोभनं भद्रं कल्याणं यस्याः सा सुभद्रा, सकलकालं कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्द्धिकेनाधिष्ठितत्वात् ५, 'विसाला य' इति विशाला - विस्तीर्णा आयामविष्कम्भाभ्यामुचैस्त्वेन चाप्रयोजनप्रमाणत्वात् ६, 'सुजाया' इति शोभनं जातं - जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितेति भाव: ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमनाः भवति हि तां पश्यतां महर्द्धिकानां मनः शोभनमतिरमणीयत्वात् ८, 'विदेहजंबू' इति, विदेहेषु जम्बूर्विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृत निवासत्वात् ९, 'सोमणसा' इति सौमनस्यहेतुत्वात् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता १ अत्री ऋषभकुटाः सर्वे जम्बूनदमया भणिताः । तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्याणि ॥ १ ॥
For Private & Personal Use Only
३ प्रतिपत्ती जम्बूवृक्षाधिकारः
उद्देशः २
सू० १५२
॥ २९९ ॥
ainelibrary.org