________________
Jain Education Inte
॥ कहि णं भंते! जसगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा ! जमगाणं पवयाणं उत्तरेणं तिरियमसंखेने दीवसमुद्दे वीइवतित्ता अण्णंम जंबूद्दीवे २ बारस जोयणसहस्सा ओगाहित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णत्ताओ बारसजोयणसहस्स जहा विजयस्स जाव महिडिया जमगा देवा जभगा देवा ॥ ( सू० १४८ )
'कहि णं भंते!' इत्यादि, क भदन्त ! उत्तरकुरुषु कुरुपु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, भगवानाह - गौतम! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् - चरमरूपात्पर्यन्तादृष्टौ योजनशतानि चतुस्त्रिंशदधिकानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वा - अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीताया महानद्या: 'पूर्वपश्चिमेन' पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ तद्यथा - एकः पूर्वकूले एक: पश्चिमकूले, प्रत्येकं चैकं योजनसहस्रमुचैस्त्वेन, अर्द्धतृतीयानि योजनशतान्युद्वेधेन - अवगाहेन, मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामविशेषेणोचैस्त्वापेक्षया चतुर्भागस्यावगाहनाभावात्, मूले एकयोजनसहस्रं विष्कम्भतः १००० मध्येऽर्द्धाष्टमानि योजनशतानि ७५०, उपरि पञ्च योजनशतानि ५००, मूले त्रीणि योजनसहस्राणि एकं च द्वापष्टुं - द्वापष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञतौ ३१६२ मध्ये द्वे योजनसहस्रे त्रीणि योजनशतानि द्वासप्ततानि - द्वासप्तत्यधिकानि ३३७२ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तौ, उपरि एकं योजनसहस्रं पञ्च चैकाशीतानि - एका शीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, एवं च तौ मूले विस्तीर्णौ मध्ये सङ्क्षिप्तौ उपरि च तनुकावत एव गोपुच्छसंस्थानसंस्थितौ, 'सव्वकणगमया' इति सर्वात्मना कनकमयौ 'अच्छा जाव पडिवा' इति प्राग्वत्, तौ च प्रत्येकं
For Private & Personal Use Only
ainelibrary.org