SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ मित्रो जात:?, भगवानाह-नायमर्थः समों, व्यपगतवैरानुबन्धास्ते मनुजगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अत्थि || भंते' इत्यादि, अस्ति भदन्त! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्रं-स्नेहविषयः, वयस्य इति वा-समानवया गाढतरस्नेहविषयः, | सखा इति वा-समानखानपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत्-मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिक:-सङ्गतिमात्रघटित: ?, भगवानाह-नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु आवाहा इति वा' आहूयन्ते खजनास्ताम्बूलदानाय यत्र स आवाहः-विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह:-परिणयनं, यज्ञा इति वा, यज्ञा:-प्रतिदिवसं स्वस्बेष्टदेवतापूजाः, श्राद्धानीति वा, श्राद्धं-पितृक्रिया, स्थालीपाका इति वा, स्थालीपाक:-प्रतीत:, मृतपिण्डनिवेदनानीति वा-मृतेभ्यः श्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनं-शिरोमुण्डनं, सीमन्तोन्नयनानीति | वा, सीमन्तोन्नयनं-गर्भस्थापनं ?, भगवानाह-नायमर्थः समर्थों, व्यपगतावावीवायज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नादहायितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृत्यन्ति स्म नृत्या-नृत्यविधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला-वरत्राखेलका है। राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जल्लप्रेक्षा, मल्लप्रेक्षेति वा, मल्ला:-प्रतीताः, मौष्टिकप्रेक्षेति वा, मौष्टिकाः मल्लविशेषा एव ये मु-17 ष्टिभिः प्रहरन्ति, विडम्बकप्रेक्षेति वा, विडम्बका-विदूषका नानावेषकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथका: प्रतीता:, प्लवकप्रेक्षेति |वा, प्लवका ये उत्प्लुत्य गादिकं झम्पाभिलङ्घयन्ति नद्यादिकं वा तरन्ति तेषां प्रेक्षा प्लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रास Jain Education a l For Private Personal Use Only W ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy