________________
Bouque
Aquarius 10
यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरः शिरः प्रभृतीन्यङ्गानि तैः सुन्दरम - समयं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवश्चरणा:- पादा येषां ते सुप्रतिष्ठितकूर्मचारुचरणा:, 'रत्तुप्पलपत्तमज्यसुकुमालकोमलतला' इति रक्तं - लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कश मिति भावः तच्चासुकुमारमपि संभवति यथा घृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतला:, तथा 'नगनगरमगरसागरचक्कं कहरं कलक्खणंकियचलणा' नगः- पर्वतः नगरमकरसागरचक्राणि - प्रतीतानि अङ्कधरः- चन्द्रमा अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकर सागरचक्राङ्कधराङ्क लक्षणाङ्कितचरणा:, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा:, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नखं नखेन हीनाः “नहं नहेण हीणाओ" इति सामुद्रिकशास्त्रवचनात् सुसंहताः-सु लिटा अङ्गुलयो येषां ते अनुपूर्व सुसंहताङ्गुलीकाः, 'उन्नयतणुतंत्रनिद्धनखा' उन्नता - ऊर्द्ध नतास्तनवस्ताम्रा: 'स्निग्धाः स्निग्धच्छाया नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संठिया सुसिलिङगूढगुल्फा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुलिष्टौ - मांसल गुल्फौ - गुलुकों येषां ते संस्थितसुलिष्टगूढगुल्फा:, 'एणी कुरुविंदवत्तवट्टाणुपुव्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्येव वर्त्त-सूत्रवलनकं तस्येव वृत्ते - वर्त्तुले आनुपूर्येण - क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जङ्घे येषां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्रकस्येव-समुद्रकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढेमांसलत्वादनुद्धते जानुनी - अष्ठीवन्तौ येषां ते समुद्ग निमन्नगूढजानवः, 'गयससणसुजायसन्निभोरू' गजो - हस्ती श्वसिति - प्राणित्यनेनेति