________________
हापण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पजत्तगा एएसिणं वण्णादेसेणं
गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साई पजत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या-कृष्णमृत्तिका-कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदासका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदामका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ॥ 'से किं त'मित्यादि ॥ अथ के ते खरबादरपृथिवीकायिका: ?, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यत: प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्भेदानाह, तंजहा-'पुढवी'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्त्यादिरूपा १, चशब्द उत्त
रापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपल:-टङ्कायुपकरणपरिकर्मणायोग्य: पाषाणः ४, शिला| घटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाणविशेष: ५, लवर्ण-सामुद्रादि ६, ऊषो यद्वशादूषरं क्षेत्रम् ७, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि-प्रतीतानि १३, वनो-हीरक: १४, हरितालहिङ्गुलमन:शिला: प्रतीताः १७, सासगं-पारदः १८, अञ्जनं सौवीराजनादि १९, प्रवालं-विद्रुमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति-'गोमेजए य' इत्यादि, गोमेजकः २३, 'चः' समुच्चये, रुचक: २४ अङ्कः २५
Jain Education in
For Private & Personal Use Only
Olainelibrary.org