________________
Jain Education Inter
ववसा (उववा)यसभाए उत्तरपुरच्छिमेणं एगे महं बेलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयण बाहल्लेणं सव्वरयतामए अच्छे जाव पडिरूवे ॥ एत्थ णं तस्स णं बलिपेढस्स उत्तरपुरतिथमेणं एगा महं णंदापुक्खरिणी पण्णत्ता जं चेव माणं हरयस्स तं चैव सव्वं ॥ ( सू० १४० ) 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्म्मासभाया इव प्रमाणं त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपा इत्यादि सर्वे तावद्वक्तव्यं यावद् गोमानसीवर्णनं, तदनन्तरमुलोकवर्णनं ततो भूमिभागवर्णनं तावद् यावन्मणीनां स्पर्शः, तथा चाह- 'सुहम्मसभावत्तव्वया भाणियव्वा जाव भूमीए फासो' इति । 'तस्स ण'मित्यादि, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं वाहल्येन सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं तस्या अपि उपपातसभाया उपरि अष्टावष्टौ मङ्गलकानीत्यादि प्राग्वत् ॥ 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको हृदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन पड् योजनानि सक्रोशानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सर्वनिरवशेषं वाच्यं तथा चाह - 'आयामुत्र्वेहेणं विक्खंभेणं वन्नओ जो चेव नंदापुक्खरिणीण' मिति || ' तीसे ण' मित्यादि, स इद
१ अत्र प्रथमं जीर्ण पुस्तके नंदापुष्करिणीविवेचनं वर्त्तते पश्चात् वलिपीठस्य परं च टीकायां प्रथमं वलिपीठस्य पश्चात् नंदायाः, एतदनुसारेण मयाऽप्यत्रैवं लिखितं २ अस्या वक्ष्यमाणव्याख्याया मूलपाठो न दृश्यते पुस्तकेषु.
For Private & Personal Use Only
Jainelibrary.org