________________
d
से णं देवसयणिज्जे' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिकं' सह आलिङ्गनवा -शरीरप्रमाणेनोपधानेन यद् तत्तथा 'उ-। भओविव्वोयणे' इति उभयतः-उभौ-शिरोऽन्तपादान्तावाश्रित्य विनोयणे-उपधाने यत्र तद् उभयतोबिव्वोयणं 'दुहतो उन्नते' इति | उभयत उन्नतं 'मज्झेणयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्त्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अबदालो-विदलनं पादादिन्यासेऽधोगमन मिति भावः तेन 'सालिसए' इति सहशकं गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वस्त्रं तदेव पट्ट ओयवियोमदुकूलपट्टः स प्रतिच्छादनं-आस्वादनं यस्य तत्तथा, 'आईणगरू-11 यवरनवणीयतूल फासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशु केन संवृतं रक्तांशुकसंवृतम् , अत एव सुरम्यं 'पासाइए' इत्यादि। पदचतुष्टयं प्राग्वत् ॥ 'तस्स ण'मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सवमणिमयी अच्छा' इत्यादि प्राम्बत् ॥ 'तीसे णमित्यादि. तस्या मणिपीठिकाया उपरि | अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजवद्वक्तव्यः ॥ 'तस्स णमित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य | पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान एकश्चोप्पालो नाम 'प्रहरणकोशः' प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्टमित्याह
'सव्ववइरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ॥ 'तत्थ णमित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमु-15 साखाणि प्रहरणरत्नानि संक्षिप्रानि तिष्ठन्ति, कथम्भूतानी यत आह-उज्वलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव | तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥ 'तीसे णं सभाए' इत्यादि. तस्या: सुधर्मायाः सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावद्वः सहस्रपत्रहस्तका: सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥
-htrkarxnxx
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
-