________________
३ प्रतिपत्ती | मनुष्या० | वनपण्डा .
| धि०
उद्देशः २ सू० १३६
श्रीजीवा
भावा' इतिपरिग्रहः पल्योपमस्थितिका: परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवनेऽशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने | जीवाभि० चम्पक: चूतवने चूतः ॥ 'तेसि ण'मि(तत्थ णं ते इ) त्यादि, ते अशोकादयो देवास्तस्य बनखण्डस्य स्वस्य प्रासादावतंसकस्य, सूत्रे मलयगि
बहुवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययो भवतीति, स्वेषां तेषां सामानिकसहस्राणां स्वासां स्वासामग्रमहिपीणां सपरिवाराणां स्वासां रीयावृत्तिः
स्वासां पर्षदां स्वेषां स्वेषामनीकानां (अनीकाधिपतीनां) स्वेषां स्वेषामामरक्षकाणाम् 'आहेवच्चं पोरेवञ्चमित्यादि प्राग्वत् ॥ 'विजयाए ण'
मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा' इत्यादि वर्णनं प्राग्वत् ॥२२२॥ ४ निरवशेषं तावद्वक्तव्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिका
लयनं प्रज्ञप्त, राजधानीस्वामिसत्कप्रासादावतंसकादीन उपकरोति-उपष्टभ्नातीत्युपकारिका-राजधानीस्वामिसत्कप्रासादावतंसकादीनां | पीठिका, अन्यत्र त्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तञ्च-“गृहस्थानं स्मृतं राज्ञामुपकार्योपकारका” इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतानि-पञ्चनवत्यधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम् , अर्द्धकोश-धनुःसहस्रपरिमाणं बाहल्येन 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयम् , 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से ण'मित्यादि, 'तद्' उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठभाविन्या एकेन च वनपण्डेन 'सर्वतः' सर्वासु दिनु |'समन्ततः' सामस्त्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनषण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ बहवे वाणमंतरा देवा | य देवीओ य आसयंति सयंति जाव विहरंति' इति ॥ 'तस्स ण'मित्यादि, तस्य उपकारिकालयनस्य 'चउदिसिंति चतुर्दिशि चतसृषु
॥ २२२॥
Jain Education in
For Private
Personal Use Only
L
iainelibrary.org