________________
बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात् , 'सव्वतवणिजमए उल्लोए' सर्वासना तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा | -लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृत त्वात्समासान्तो |मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपात: प्राकृतत्वात् , 'अंकमया पक्खा पक्खबाहाओ जोईरसामया वसा वसकवेल्लुगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सब्बसेयरययामए छा(य)णे' इति पद्मवरवेदिकावद्भावनीयम् , 'अंकमयकणगकूडतवणिज्जथूभियागे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाह्वादीनामङ्करत्नात्मकत्वात् कनक-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति--'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिषणगोखीरफेणरययनिगरप्पगासे' इति विमलं-विगतमलं यत् शङ्खतलं शशस्योपरितनो भागो यश्च निर्मलो दधिधनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरश्च तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डूविशेषास्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, कचित् 'संखतलविमलनिम्मलदधियणगोखीरफेणरययनियरप्पगासद्धचंदचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिए' नाना
जी० च०३५
Jain Education I
For Private & Personal Use Only
Krvw.jainelibrary.org