________________
नास्तुरगास्ते सुष्ठु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-दक्षः सारथिस्तेन सुटु सम्यक्परिगृहीतस्य, तथा 'सरसयबत्तीसतोणमंडियस्स' इति शराणां शतं प्रत्येक थेपु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-याणाश्रयाः शरशतद्वात्रिंशत्तोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य | सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्ग्रामायोपकल्पितस्यातीय मण्डनाय भवन्तीति, तथा कङ्कट-कवचं सह ककटं यस्य स सकङ्कटः सकङ्कटोऽवतंसः-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुष
डिप्रभृतीनि नानाप्रकाराणि यानि च कवचखेटकप्रमुखाणि आवरणानि तै तः-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुPणीभूतो यः स योधयुद्धसजः, ततः पूर्वपदेन सह विशेषणसमासः, तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले
मणिवद्धभूमितले अभीक्ष्णमभीक्ष्णं मणिको(कु)ट्टिमतलप्रदेशे राजाङ्गणप्रदेशे वा अभिघट्टि जमाणस्से'ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दा अभिनिस्सरन्ति, 'भवे एयारूवे सिया' इति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह्-स यथा नामक:-प्रात: सध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या-वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं मूर्छा सा संजाताऽस्या इति मूछिता उत्तरमन्दया-उत्त
रमन्दाभिधानया मूर्छनया-गान्धारस्वरान्तर्गतया सप्तम्या मूञ्छिता उत्तरमन्दामूञ्छिता, किमुक्तं भवति ?-गान्धारस्वरस्य सप्त मूजी० च० ३३/
Jain Education in
For Private
Personal Use Only
16
jainelibrary.org