________________
A
पतिसङ्घाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनाथै 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेणार
ह्यादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ तहिं २ देसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि । *'तीसे ण'मित्यादि, तस्यां णमिति पूर्ववत् पद्मवरवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि
'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बह्वयः 'पद्मलताः' पद्मिन्यः 'नागलताः' नागा-द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, बणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलता: श्यामलताः, कथम्भूता एता:?: इत्याह-नित्यं सर्वकालं षट्स्वपि ऋतुवित्यर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्याखिति कुसुमिताः, तारकादिदर्शना|दितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः नित्यं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिता:, स्तबकगुल्मौ गो(गु)च्छविशेषा, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोतयोर्युग्मं तत्संजातमास्विति यमलिताः, नियं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फल-IP भारेण नता-ईपन्नता नित्यं प्रणता-महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते'त्यादि सुविभक्तिकः-सुविच्छित्तिकः प्रतिवि-18 शिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरा:-तद्धारिण्यः । एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं
कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छि यविणमियपहणमियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरूपा: ? इत्याह-सव्वरयणामईओ' सर्वासना
CANCELCASCACANCECAUCROCOM
लभारेण दूर
पि कुसुमित
उलियलवर
Jhin Education
For Private
Personal Use Only
Lhowjainelibrary.org