SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १८१ ॥ Jain Education In परस्पर संपर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योग:, स च ७ ३ प्रतिपत्तौ स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरः, 'लिहादे'राकृतिगणत्वादच्प्रत्ययः, तेन तदपि मनोहरत्वं कुत: ? इत्याहकर्णमनो निर्वृतिकरेण - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः - यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः - सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः' दिक्षु 'समन्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ 'तीसे ण' मित्यादि, तस्याः पद्मवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरकिंनरकिंपुरुषमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' सर्वासना रत्नमया: 'अच्छा' आकाशस्फटिकवदतिस्वच्छाः 'जाव पडिरुवा' इति यावत्करणात् 'सण्हा लण्हा घट्टा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तच्च प्राग्वत् । एते च सर्वेऽपि यसवाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः सम्प्रत्येतेषामेव हयादीनां पङ्कयादिप्रतिपादनार्थमाह-- ' एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टानां सङ्काटा उक्तास्तथा पङ्कयोऽपि वक्तव्या वीथयोऽपि मिथुनकानि च तानि चैवम्— 'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहिं तहिं बहुयाओ हयपतीओ गयपतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणिः सा पतिरभिधीयते, उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च वीथी For Private & Personal Use Only मनुष्या० पद्मवरवे दिकाव० | उद्देशः १ [सू० १२६ ॥ १८१ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy