________________
श्रीजीवा
जीवाभि० मलयगि
रीयावृत्तिः
॥ १७८ ॥
Jain Education Inte
-+-+
मारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमरहिता वा 'निक्कंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थ: छाया - दीप्तिर्यस्याः सा निष्कङ्कटच्छाया 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गत किरणजाला, अत एवं 'सोद्योता' बहिर्व्यवस्थित वस्तुस्तोमप्रकाशकरी 'प्रासादीया' प्रसादाय - मनः प्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रहत्तिकारिणीति भाव: 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत इति 'अभिरुवा' इति अभि- सर्वेषां द्रष्टृणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तकमनीयेति भाव:, अत एव 'प्रतिरूपा' प्रतिविशिष्टम् - असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा ॥ 'सा णं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानि - जालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटक:- समूहो जालकटको जालकाकीर्णा रम्यसंस्थान प्रदेशविशेषपतिरिति भाव:, तेन जालकटकेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता || ' से णं जालकडए' इत्यादि, 'सः' जालकटक ऊर्द्धमुचैस्त्वेनार्द्धयोजनं - द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति ? - जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि च प्रत्येक मूर्द्धमुचैस्त्वेन द्वे गव्यूते विष्कम्भतः पञ्चधनुः शतानीति, स च जालकटक: 'सव्वरयणामए' इति सर्वालना रत्नमय: 'अच्छे सण्हे लहे जाव पडिरूवे' इति यावच्छन्दकरणात् 'घट्टे मट्ठे नीरए निम्मले निप्पंके निक्कंकडच्छाये सप्पने समरीए | सउज्जोए पासाइए दरिसणिजे अभिरू' इति परिग्रहः, एतेषां [प्रन्थाग्रम् ५००० ] पदानामर्थः प्राग्वत् ।।
तीसे णं जगतीए उपि बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पं०, साणं परमवरवे
For Private & Personal Use Only
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १
सू० १२५
॥ १७८ ॥
ainelibrary.org