________________
रथस्य-रथाङ्गस्य चक्रस्यावयवे समुदायोपचाराच्चक्रवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं वृत्त: पुष्करकर्णिकासंस्थानसंस्थित: पुष्करकर्णिका-पद्मबीजकोश: वृत्त: परिपूर्णचन्द्रसंस्थानसंस्थित: पदद्वयं भावनीयम् , एतेन जम्यू-1 द्वीपस्य संस्थानमुक्तम् ॥ सम्प्रत्यायामादिपरिमाणमाह-एक ण'मित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भ, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविंशम्-अष्टाविंशत्यधिकं धनुःशतं त्रयोदशाङ्गलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदगुणकरणी वट्टस्स परिरओ होइ।' इति करणवशात्स्वयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनायाः सविस्तरं कृतत्वात् ।। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'से ण'मित्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालङ्कारे एकया जगत्या सुनगरप्राकारकल्पया 'सपर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्तः' सम्यग्वेष्टितः ॥ 'सा णं जगई' इत्यादि, सा च जगती ऊर्द्धम्-उच्चस्त्वे
नाष्टौ योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये सं|क्षिप्ता त्रिभागोनत्वात् , उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् , एतदेवोपमया प्रकटयति-'गोपुच्छसंठाणसंठिया' गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊकृतगोपुच्छाकारा इति भावः, 'सब्ववइरामई सवासना-सामस्त्येन वनमयी-वनरत्नामिका 'अच्छा' आकाशस्फटिकवदतिस्वच्छा ‘सण्हा लण्हा' श्लक्ष्णा-श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् 'लण्हा' ममृणा घुण्टितपटवत् 'घट्ठा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'महा' मृष्टा इव मृष्टा सुकु
Jan Eduentan in
For Private Personal use only
K
hainelibrary.org