________________
PI कारः
श्रीजीवा- पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन-अभिलयन शिखरं येषां तानि गगनतला-1 प्रतिपत्ती जीवाभि० नुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि देवाधिमलयगि
जालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तरीयावृत्तिः |मनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकन
| उद्देशः१ ॥१७५॥ कस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतित्वेन
सू०१२२ स्थितानि तिलकाश्च-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा नानामणिमयीभिर्दाम भिरलकृतानि नानामणिमयदामालङ्कतानि, तथाऽन्तर्बहिश्च श्लक्ष्णानि-ममृणानि, तथा तपनीयं-सुवर्णविशेघस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पपानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाः
ईषत्कनकवर्णाः, तथा ये ग्रहा ज्योतिष्के-ज्योतिश्चक्रे चारं चरन्ति केतवः ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका: ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः चशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या -अवस्थिततेजोलेश्याकाः, तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्कन-वखनामाङ्कपातेन प्रकटितं चिह्न मुकुटो येषां ते प्रत्येकं स्वनामाङ्कप्रकटितमुकुटचिह्नाः, किमुक्तं भवति?-चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं खना
xl॥१७५॥ VIमाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डलं नक्षत्रस्य नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेष प्राग्वत् ॥ पर्षन्निरूपणार्थमाह
Jan Education in
For Private Personel Use Only
HAHainelibrary.org