________________
Jain Education
द्विषये अपि प्रश्नसूत्रे वक्तव्ये, भगवानाह - गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानामर्द्धतृतीयानि पल्योपमानि स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवानां द्वे पल्योपमे स्थितिः प्रज्ञप्ता, बाह्यायां पर्षदि देवानां द्व्यर्द्ध पल्योपमं स्थितिः प्रज्ञप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां द्व्यर्द्धपल्योपमं स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवीनां पल्योपमं स्थितिः, प्रज्ञप्ता, बाह्यायां पर्षदि देवीनामर्द्धपल्योपमं स्थितिः प्रज्ञप्ता, इह भूयान् वाचनाभेद् इति यथाऽवस्थितसूत्रे पाठनिर्णयार्थे सुगममपि सूत्रमक्षरसंस्कारमात्रेण वि - त्रियते । सम्प्रत्यभ्यन्तरिका दिव्यपदेशकारणं पिपृच्छिपुरिदमाह - 'से केणडेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते ? चमरस्य असुरकुमारराजस्य तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा समिता चण्डा जाता, अभ्यन्तरा समिता मध्यमिका चण्डा बाह्या जाता भगवानाह - गौतम ! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तर पर्षत्का देवाः 'वाहिता' आहूता: 'हवं' शीघ्रमागच्छन्ति नो 'अव्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपर्षद्वा देवा आहूता अपि शीघ्रमागच्छन्ति अनाहूता अपि मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षद्वा देवा अनाहूताः शीघ्रमागच्छन्ति तेषामाकारणलक्षणगौरवानर्हत्वात्, 'अदुत्तरं च णमित्यादि, 'अथोत्तरम्' अथान्यद् अभ्यन्तरत्वादिविषये कारणं गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनाशोभनेषु 'कज्जकोडुंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्बे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थः तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संगतिसंप्रनबहुलचापि विहरति, सन्मत्याउत्तमया मत्या यः संप्रश्नः - पर्यालोचनं तद्बहुलचापि 'विहरति ' आस्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालोच्य विधातीति भाव:, मध्यमिकया पर्षदा सार्द्धं यद्भ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तत्प्रपञ्श्चयन् विहरति' एवमिद्मस्माभिः पर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयन्नास्ते, बाह्यया पर्षदा सह यद्भ्यन्तरिकया पर्षदा सह पर्यालोचितं
For Private & Personal Use Only
jainelibrary.org