SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ठा इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकम-SH लासम्भवात् 'निष्पङ्कानि' कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिरणजालानि 'सोद्योतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि' प्रसादाय-मन:प्रसत्तये हितानि मनःप्रसत्तिका-18 रीणीति भावः, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतश्चक्षुषी न श्रमं गच्छत इति भावः, 'अभिरूवा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्तकमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ॥ तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं 'क्क भदन्त ! भवनवासिनो देवाः परिवसन्तीति तत्रोत्तरमाह-'तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणियव्वो जाव विहरंति एवं जा ठाणपदे वत्तव्वया सा भाणियब्वा जाव चमरेणं असुरकुमारिंदे असुरकुमारराया परिवसई' इति, 'तत्र' तेष्वनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवा: परिवसन्ति, तानेव जातिभेदत आह–'असुरा नागा' इत्यादि यावत्करणादेवं परिपूर्णः पाठ:-"असुरा नाग सुवण्णा विज अग्गी य दीव उदही य दिसिपवणथणियनामा दसहा एए भवणवा|सी ॥ १ ॥ चूडामणिमउडरयणा १ भूसणनागफण २ गरुल ३ वइर ४ पुण्णकलसअंकउप्फेस ५ सीह ६ हयवर ७ गय ८ मगरंक९ वरवद्धमाण १० निजुत्तचित्तचिंधगया सुरूवा महिडीया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमट्टगंडतलकण्णा पीढधारी विचित्तहत्थाभरणा विचित्तमालामउली (मउडा) कल्लाणगपवरवत्थप Jain Education Intel For Private & Personel Use Only Jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy