________________
श्रीजीवा- इति चन्दनघटै:-चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थ: यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वार-8 प्रतिप्रत्तौ जीवाभि० देशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामक- देवाधिमलयगि- लावा' इति आ-अवाङ् अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्त: उल्लोचतले उपरि संबद्ध इत्यर्थः | कार: रीयावृत्तिः विपुलो-विस्तीर्णो वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो येषु तानि आसक्तोसक्तविपुलवृत्त- उद्दशः१
प्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा-सुरभिगन्धेन मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलितानि सू०११७ ॥१६॥
पञ्चवर्णसुरभिमुक्तपुष्पपुखोपचारकलितानि, तथा कालागुरु:-प्रसिद्धः प्रवर:-प्रधान: कुन्दुरुष्क:-चीडा तुरुष्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धुताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः ते
च ते वरगन्धाश्व-वासा: सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत 8| एव गन्धवतिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग-मणीय
तया विकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां-वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि-सम्यकश्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्नमयानि-सर्वात्मना सामस्त्येन रत्न
मयानि न त्वेकदेशेन सर्वरत्नमयानि-समस्तरत्नमयानि अच्छानि-आकाशस्फटिकवदतिस्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पतनानि श्लक्ष्णदलनिष्पन्नपटवत् लण्हानि-मसृणानि घुण्टितपटवत् 'घट्ठा' इति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत् , 'महा'
॥१६
॥
Jain Education inte
ForPrivate sPersonal use Only
M
ainelibrary.org