SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ oilद्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पञ्चषष्टानि-पञ्चषष्ट्यधिकानि । तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु 'आर्यसमुहाणं'ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णा द्वीपानां परिरयपरिमाणं भवति, तच्च पञ्चदश योजनशतान्येकाशीयधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आसमुहाणं'ति अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णी द्वीपानां परिक्षेपः, तद्यथा-अष्टादश योजनशतानि सप्तनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आसकण्णाणं'ति अश्वकर्णप्रमुखाणां पञ्चानां चतुर्णा द्वीपानां परिक्षेपो भवति, तद्यथा-द्वाविंशतियोजनशतानि त्रयोदशानि-त्रयोदशाधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि-एकोनत्रिंशदधिकानि । तत: पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्लेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-द्वे सहस्रे अष्टौ शतानि पञ्चचत्वारिंशानि-पञ्चचत्वारिंशदधिकानि 'विसेसमहिओं' इति किञ्चिद्विशेषाधिकः अधिकृत: परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थः, इदं च पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसम्बन्धनीयं, तेन सर्वत्रापि किञ्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेव|मेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽश्राविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणपद्मादप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वेदितव्याः, तथा चाह-“कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ Jan Education in For Private Personal Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy