SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १५६ ॥ Jain Education ४ 'कहि णं भंते!' इत्यादि, क्क भदन्त ! ह्यकर्णमनुष्याणां ह्यकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! एकोरुकद्वीपस्य पूर्वस्माच्चरमान्ताद् उत्तरपूर्वस्यां दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्योजनशतान्तरे दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, स च चत्वारि योजनशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किञ्चिद्विशेपाधिकानि परिक्षेपेण, शेषं यथैकोरुकमनुष्याणां । एवमाभापिकद्वीपस्य पूर्वस्माच्चरमान्तादक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गजकर्ण मनुष्याणां गजकर्णो द्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाञ्चरमान्ताद्दक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गोकर्ण मनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाचरमान्ताद् उत्तरपश्चिमायां दिशि लवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे दाक्षिणात्यानां शष्कुलीकर्णमनुष्याणां शष्कुलीकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत्, पद्मवरवेदिकावनपण्डमनुष्यादिखरूपं च समस्तमेकोरुकद्वीपवत् । एवमेतेनाभिलापेनामीपां हयकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु पथ्य योजनशतानि लवणसमुद्रमवगाह्य पञ्च योजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मववेदिकावनपण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकान्तात्पश्वयोजनशतप्रमाणान्तरा आदर्शमुखमेण्डमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-यकर्णस्य परत आदर्शमुख गजकर्णस्य परतो मेण्डमुखो गोकर्णस्य परतोऽयोमुखः शष्कुलीकर्णस्य परतो गोमुखः । For Private & Personal Use Only ३ प्रतिपत्तौ मनुष्याधि० उद्देशः १ सू० ११३ ॥ १५६ ॥ w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy