SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ USALMANGAROSARKARIGOLCAR तात्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भिन्न:-खण्डो मुहूत्तों भिन्नमुहूर्त: अन्तर्मुहूर्तमित्यर्थः, नरकेपत्कर्षतो विकुर्वणास्थितिकालः, तिर्यड्मनुष्येषु चत्वार्यन्तर्मुहूर्त्तानि, देवेष्वर्द्धमास उत्कर्षतो विकुर्वणाऽवस्थानकालः भणित: एष उत्कर्पतो विकुर्वणाऽवस्थानकालो भणि तस्तीर्थकरगणधरैः । सम्प्रति नरकेवाहारादिस्वरूपमाह-ये पुद्गला अनिष्ठा नियमात्स तेषां भवत्याहारः, 'संस्थानं त' संस्थानं पुन(स्तेषां हुण्डं हुण्डमपि जघन्यमति निकृष्टमनिष्टं वेदितव्यं, एतञ्च भवधारणीयशरीरमधिकृत्य वेदितव्यम, उत्तरवैक्रियसंस्थानस्याने वक्ष्य |माणत्वान , इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोष: ।। सम्प्रति विकुर्वणास्वरूपमाह-सर्वेषां नैरयिकाणां विकुर्वणा 'खल |निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विघ्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषामशुभैव विकुर्वणा भवति, तदपि च वैक्रियं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं. तथा हुण्डसं-IN स्थानं तत् उत्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ।। कश्चित् जीव: 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तम-101 हास्तमापर्यन्तासु सर्वेष्वपि च 'स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरण| कालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति क्षपयति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ॥ आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा चाह-'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले 'सातं' सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यः प्राग्भवे दाघच्छेदाव्यितिरेकेण मरणमुपगतोऽनतिसक्कृिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते. 'देवकम्मुणा वावि' इति देवकर्मणा SCANCECANCEOCOMSAXCCC Jain Education al For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy