________________
%
%
COMSASC
%
%
%
IDIअर्कतं अप्पियं अमणन्नं अमणामं अस्यार्थः प्राग्वत्, एवं प्रतिपृथिवि ताबद्वक्तव्यं यावत्तमस्तमायाम् , एवमप्लेजोवायवनस्पति.
स्पर्शसूत्राण्यपि भावनीयानि, नवरं तेज:स्पर्श:-उष्णरूपतापरिणतनरककुड्यादिस्पर्श: परोदीरितवैक्रियरूपो वा वेदितव्यो न तु साक्षाद् वादराग्निकायस्पर्शः, तत्रासम्भवात् ।। 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां त्रिंशति नरकावासशतसहस्रेषु एकैकस्मिन् नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिका: 'सर्वे सत्त्वाः पृथिव्यादयः 'सर्वे जीवाः पञ्चेन्द्रियाः, उक्तञ्च-प्राणा द्वित्रिचतु: प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ १॥" पृथिवीकायिकतया अप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्ना: उत्पन्नपूर्वाः ?, भगवानाह-हते'त्यादि, हन्तेति प्रत्यवधारणे गौतम ! 'असकृत्' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान वारान , संसारस्यानादित्वात् , एवं प्रतिपृथिवि | तावद्वक्तव्यं यावद्धःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः । कचिदिदमपि सूत्रं दृश्यते-'इमीसे गं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु णं जे बायरपुढविक्काइया जाव वणस्सइकाइया ते णं भंते ! जीवा! महाकम्मतरा चेव महाकिरियतरा चेव महासवतरा चेव महावेयणतरा चेव, हंता गोयमा! जाव महावेयणतरा चेव, एवं जाव अहेसत्तमा ॥” अस्यां भदन्त ! रमप्रभायां पृथिव्यां नरकपरिसमन्तेपु-नरकावासपर्यन्तवर्तिषु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणप्फइकाइय'त्ति बादराकायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त ! जीवा: 'महाकम्मतरा चेव' महन्-प्रभूतमसातवेदनीयं कर्म येषां ते महाकर्माणः, अतिशयेन महाकाणो महाकर्मतराः, 'चेवे' त्यवधारणे, महाकर्मतरा एव कुत: ? इत्याह-'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग जन्मनि तद्भवेषु तद्ध्यवसायानिवृत्त्या येषां ते महाक्रियाः. अतिशयेन महाक्रिया ||
%
AMERASACROO
%25294%
For Private Personal Use Only
O
Jain Education
w.jainelibrary.org