SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ COCOCCALCOCAOSC060 शड्यापगमान् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथाखसुखं (संकसन ) संक्रामन् सातसौख्यबहुलो विहरेत् , एवमुक्ते गौतम आह-भवेयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह इमीसे णं भंते ! रयणप्प० पु० रतियाणं केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जहणणवि उक्कोसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए ॥ (मू०९०)॥ इमीसे णं भंते ! रयणप्पभाए रतिया अणंतरं उव्वयि कहिं गच्छंति? कहिं उबवजंति? किं नेरतिएम उववजंति ? किं तिरिक्खजोणिएसु उववज्जति ?, एवं उबट्टणा भाणितव्वा जहा वकंतीए तहा इहवि जाव अहेसत्तमाए ॥ (सू०९१) __रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जघन्यतः सप्त सागरोपमाणि उत्कपतो दश, धूमप्रभापृथिवीनरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश, तमःप्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, तमस्तम:प्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , क्वचित् जहा पण्णवणाए ठिइपदे' इत्यतिदेश: सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपुथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तट स्थितिपरिमाण चिन्त्यते तदैवमवगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि १०००, उत्कृष्टा नवतिः ९००००, FRIENCSCANANCSC-SCANCSCANA-CCE Jain Education Inter For Private Personal Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy