SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ । XANCCCCCCCC-CA रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञप्राः ?, भगवानाह-गौतम! कापोतलेश्या प्रज्ञता, एवं शर्कराप्रभानैरयिकाणामपि नवरं तेषां कापोतलेश्या सक्लिष्टतरा वेदितव्या, वालुकाप्रभानैरयिकाणां द्वे लेश्ये, तद्यथा-नीललेश्या च कापोतलेश्या च, तत्र ते बहुतरा ये कापोतलेश्याः, उपरितनप्रस्तटवर्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात् , ते स्तोकतरा ये नीललेश्याकाः, पङ्कप्रभागृथिवीनरयिकाणामका नीललेश्या, सा च तृतीयपृथिवीगतनीललेश्याऽपेक्षयाऽविशुद्धतरा. धूमप्रभापृथिवीनैरयि|काणां द्वे लेश्ये, तद्यथा-कृष्णलेझ्या च नीललेझ्या च, तत्र ते बहुतरा ये नीललेइयाकाः, ते स्तोकतरा ये कृष्णलेश्याका:, भावनाऽ त्रापि प्राग्वत् , तमःप्रभापृथिवीनरयिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्रमपृथिवीनकारयिकाणामेका परमकृष्णलेश्या. उक्तं च व्याख्याप्रज्ञप्ती-'काऊ दोसु तइयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥" सम्प्रति सम्यग्दृष्टि त्वादिविशेषप्रतिपादनार्थमाह-रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयो वा?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोकपि, एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वन्नाह-रयणे त्यादि, रत्नप्रभापृथिवीनै रयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानिलान्मिथ्यादृशामज्ञानित्वात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, अपर्याप्रावस्थायामपि तेपामवधिज्ञानसम्भवात् , सज्ञिपञ्चेन्द्रियेभ्यस्तेषामुत्पादात् , त्रि ज्ञानित्वमेव भावयति, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्थेगइया' इति अस्तीतिनिपातोहात्र बहुवचनगर्भः सन्त्येकका व्यज्ञानिन: सन्त्येककाख्यज्ञानिनः, तत्र येऽसज्ञिपञ्चेन्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गा ON-KATHATRA Jain Education in For Private & Personel Use Only jainelibrary.org RN
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy