SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ जी० च० १८ Jain Education In तुरस्रसंस्थाना: पुष्पावकीर्णास्तु नानासंस्थाना: प्रतिपत्तव्याः, एतच्चा स्वयमेव वक्ष्यति, “अहे खुरप्पसंठाणसंठिया" इति, 'अधः ' भूमितले क्षुरप्रस्येव - प्रहरणविशेषस्य (इव) यत् संस्थानम् - आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि - तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा "निच्चंधयारतमसा " नित्यान्धकारा: उद्योताभावतो यत्तमस्तेन - तमसा नित्यं सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहि: सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकर जन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्यु द्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुद्योतकारिणामभावान्, तथा चाह - " ववगयगहचंदसूरनक्खत्त जोइस पहा" व्यपगतः - परिभ्रष्टो महचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था -मार्गे यत्र ते व्यपगतग्रह चन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा “मेयवसा पूयरु हिरमंस चिक्खिल्ललित्ताणुलेवणतला" इति स्वभावतः संपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्लः - कर्दमस्तेन लिप्तम्- उपदिग्धम् अनुलेपनेन - सकलिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवशापूतिरुधिरमांस चिक्खिल्ललिप्तानुलेपनतला अत | एवाशुचयः - अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धाः -मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः, "काऊअगणिवन्नाभा" इति लोहे धन्यमाने यादृक् कपोतो - बहुकृष्णरूपोऽग्नेर्वर्णः किमुक्तं भवति ? - यादृशी वहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छतीति तादृशी आभा-वर्णस्वरूपं येषां ते कपोताग्निवर्णाभाः, तथा कर्कशः - अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति दुःखेनाध्यास्यन्ते - सह्यन्ते इति दुरध्यासा अशुभा दर्शनतो नरका:, तथा गन्ध For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy