SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥१०२॥ तेणं णरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावणं उव- ३ प्रतिपत्ती जंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं, जत्थ जं बाहलं जत्थ जत्तिया वा नरयावाससयस- उद्देशः१ हस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिमं केवतिए कति अणुत्तरा महइ महा नरकावालता महाणिरया पण्णत्ता एवं पुच्छितव्वं वागरेयव्वंपि तहेव ॥ (सू०८१) सस्थान 'कइ णं भंते !' इत्यादि, कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? इति, विशेषाभिधानार्थमेतदभिहितम् , उक्तञ्च-"पुब्बभणियंपि जं सू० ८१ पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्णा कारण(हेउ)विसेसोवलंभो वा ॥ १॥" भगवानाह-गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा-रत्नप्रभा यावत्तमस्तमप्रभा ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमाणमवगाह्य-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रमाणं वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येकं योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा 'मध्ये' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहस्र 'अत्र' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणां योग्यानि त्रिंशन्नरकावासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृद्भिः, अनेन | सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता॥'ते णं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'बहिः' बहिर्भागे, 'चतुरस्राः' चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्टा वृत्तव्यस्रच ॥१०२॥ | १ पूर्वभणितमपि यत् पुनर्भग्यते तत्र कारणमस्ति । प्रतिषेधोऽनुज्ञा कारणविशेषोपलम्भश्च ॥ १॥ Jain Education For Private Personel Use Only Biljainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy