SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ बाहल्यपरिमाणमपि घनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ।। सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह-गौतम! 'वृत्तः' चक्रवालतया परिवर्तुलो वलयस्य-मध्यशुपिरस्य वृत्तविशेषस्याकार:-आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसंस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः ॥ कथमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति ?, तत आह-'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभा पृथिवीं 'सर्वतः' सर्वासु दिक्षु विदिक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्त्तते तेन कारणेन वलयाकारसंस्थानसंस्थितः प्रज्ञप्तः । एवं धनवातवलयसूत्रं तनुवातवलयसूत्रं च परिभावनीयं, नवरं धनवातवलयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यः, तनुवातवलयो घनवातवलयं संपरिक्षिप्येति । एवं शेषास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनी यानि ॥ 'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां ६ प्रज्ञप्ता?, भगवानाह-असङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ?-असङ्ख्येयानि योजनसहस्राणि आयामेन, असङ्ख्येयानि योजनसहस्राणि विष्कम्भेन च, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तने तुल्यत्वं, तथाऽसङ्ख्येयानि योजनसहस्राणि 'परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी तावद्वक्तव्या यावधःसप्तमी पृथिवी ॥ 'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते मध्ये च सर्वत्र समा 'वाहल्येन' पिण्डभावेन प्रज्ञता ?, भगवानाह-गौतमेत्यादि सुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ॥ इमीसे णं भंते! रयणप्प० पु० सव्वजीवा उववण्णपुव्वा? सव्वजीवा उववण्णा?, गोयमा! जी०च०१७ Jain Education in For Private & Personel Use Only hjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy