SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ हस्सवाहल्लस्स खेत्तच्छेएण छिजमाणीए अस्थि दवाई वण्णतो जाव घडत्ताए चिट्ठति?, हता अत्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहल्लस्स घणवातस्स असंखेजजोयणसहस्सबाहल्लस्स, एवं जाव ओवासंतरस्स, जहा सकरप्पभाए एवं जाव अहेसत्तमाए ॥ (सू०७३) है 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्ध्या प्रतर काण्डविभागेन छिद्यमानायाम् , अस्तीति निपातोऽत्र बहुलवचनार्थगर्भः, सन्ति द्रव्याणि वर्णत: कालानि नीलानि लोहितानि हारिद्राणि शुक्लानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च, रसतस्तिक्तरसानि कटुकानि कषायाणि अम्लानि मधुराणि, स्पर्शत: कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि कक्षाणि, संस्थानतः परिमण्डलानि वृत्तानि व्यस्राणि चतुरस्राणि आयतानि, कथम्भूतान्येतानि सर्वाण्यपि ? इत्यत आह-'अन्नमन्नपुट्ठाई' इत्यादि, अन्योऽन्य-परस्परं स्पृष्टानि-स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यं-परस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः कचित्सर्वतोऽवगाढमित्यर्थः, तथाऽन्योऽन्यं-परस्परं स्नेहेन प्रतिबद्धानि येनैकस्मिन् चाल्यमाने गृह्यमाणे वाऽपरमपि चलनादिधर्मोपेतं भवति, एवम् 'अन्नोन्नघडत्ताए चिट्ठति' इति, अन्यो|ऽन्य-परस्परं घटन्ते-संबध्नन्तीति अन्योऽन्यघटास्तद्भावोऽन्योऽन्यघटता तया-परस्परसंबद्धतया तिष्ठन्ति, भगवानाह-'हंता अत्थि' 'हन्त !' इति प्रत्यवधारणे सन्त्येवेत्यर्थः । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य, तदनन्तरं रत्नकाण्डस्य योजनसहस्रबाहल्यस्य, ततो वनकाण्डस्य यावद्रिष्ठकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुबालकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमबबहुलकाण्डस्याशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमस्या एव रत्नप्रभाया घ Jain Education in For Private & Personel Use Only A jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy