SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नैरयिका:?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्राः, तद्यथा-प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिका इत्यर्थः, एवं सर्वत्र भावनीयम् ॥ मम्प्रति प्रतिष्ठथिवि नामगोत्रं वक्तव्यं, तत्र नामगोत्रयोरयं विशेष:-अनादिकालसिद्धमन्वर्थरहितं नाम सान्वर्थ तुर नाम गोत्रमिति, तन्त्र नामगोत्रप्रतिपादनार्धमा---'इमा णं (पढमा णं) भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी 'किनामा किमनादिकालप्रसिद्धान्वर्थरहितनामा ? 'किंगोत्रा ?' किमन्वर्थयुक्तनामा ?, भगवानाह-गौतम ! नाना धम्र्मेति प्रज्ञप्ता गोत्रेण रत्नप्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः-रबानां प्रभा-बाहुल्यं यत्र सा रशप्रभा रनबहुलेति भावः, एवं शेषसूत्राण्यपि प्रतिपथिवि प्रशनिर्वचनरूपाणि भावनीयानि, नवरं शर्कराप्रभादीनामियमन्वर्थभावना-शर्कराणां प्रभा--बाहुल्यं यत्र सा शर्कराप्रभा, एवं वालुका प्रभा पङ्कप्रभा इत्यपि भावनीयं, तथा धूमस्येव प्रभा यस्याः सा धूमप्रभा, तथा तमस: प्रभा-बाहुल्यं यत्र सा तमःप्रभा,31 तमस्तमस्य--प्रकृष्टतमस: प्रभा-बाहुल्यं यत्र सा तमस्तमप्रभा, अत्र केपुचित्पुस्तकेपु सङ्ग्रहणिगाथे-'धम्मा वंसा सेला अंजण रिट्ठा है मघा य मायवती । सत्तष्हं पुडवीणं एए नामा उ नायव्वा ॥ १ ॥ रयणा सक्कर बालुय पंका धूमा तमा [य] तमतमा य । सत्तण्हं पुढवीणं एए गोता मुगेयच्या ॥ २॥" अधुना प्रतिपृथिवि बाहुल्यमभिधित्सुराह-'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियद्वाहुल्येन प्रमा?, अत्र गोत्रेण प्रश्नो नान्नो गोत्रं प्रधानतरं प्रधानेन च प्रश्नायुपपन्नमिति न्यायप्रदर्शनार्थः, उक्तञ्च । IN/-न हीना बाक् सदा सता"मिति, भगवानाह-'अशीत्युत्तरम्' अशीतियोजनसहनाभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रज्ञता । 15 एवं सर्वाग्यपि सूत्राणि भावनीयानि, अत्र सङ्ग्रहणिगाथा-"आतीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं अट्ठो त्तरमेव हिहिमिया ॥ १॥ Jain Education in For Private Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy