________________
USALGAUMACHARGALSAGAR
यमतिदेशमाह-जंतिरिक्खजोणित्थीणमंतर'मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेषितं वक्तव्यं, तञ्चैवम्-सामान्यतस्तिर्यक्पुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात् , उत्कर्षतो वनस्पतिकालोऽसङ्ख्येयपुद्गलपरावर्ताख्यः, तावता कालेनामुक्तौ सत्यां नियोगत: पुरुषत्वयोगात् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं ॥ सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमतिदेशमाह -'जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण'मिति, यन्मनुष्यत्रीणामन्तरं प्रागमिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तञ्चैवम्सामान्यतो मनुष्यपुरुषस्य जघन्यत: क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिञ्चरणप्रतिपत्तिसम्भवात् , उत्कर्षतो देशोनापार्द्धपुद्गलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य चरणमधिकृत्य च प्रत्येक जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषु देवेषूत्पद्य[ते], ततोऽपि च्युत्वा कर्मभूमिषु त्रीत्वेन पुरुषत्वेन वोत्पद्य कस्याप्यकर्मभूमित्वेन भूयोऽप्युत्पादात् , देवभवाच्युत्वाऽनन्तरमकर्मभूमिषु मनुष्यत्वेन तिर्यक्सङ्क्षिपञ्चेन्द्रियत्वेन वा उत्पादाभावादपान्तराले कर्मभूमिकेषु मृत्वोत्पादाभिधानं, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीय जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः कर्मभूमिषु संहृत्यान्तर्मुहूर्तानन्तरं तथाविधबुद्धिपरावर्त्तादिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो वनस्पतिकालः, एतावत: कालादूर्द्धमकर्मभूमिपूत्पत्तिवत् संहरणस्यापि नियोगतो भावात् । एवं हैमवतैरण्यवतादिष्वप्यकर्मभूमिषु जन्मतः संहरणतश्च जघन्यत
Jain Education Holdeal
For Private & Personel Use Only
BMw.jainelibrary.org