________________
पल्योपमं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकमेकं पल्योपमं, अत्र भावना प्रागुक्तानुसारेण स्वयं | कर्तव्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीय जघन्यतो द्वे पल्योपमे पल्योपमासयेयभागन्यूने, उत्कर्षतः परिपूर्णे द्वे पल्योपमे, जघन्यत उत्कर्षतश्च तत्रैतावत आयुष: सम्भवान् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्त्तायुषः संहरणाऽसम्भवात् , उत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुष: क्षेत्रं प्रतीत्य जघन्यतः पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पस्योपमानि, संहरणमधिकृत्य जघन्यतोऽ|न्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यधिकानि । अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासङ्ख्येयभागमुस्कर्षतः परिपूर्ण पल्योपमासद्धयेयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोदिसमभ्यधिकः पल्योपमासङ्घयेयभागः । 'देवाणं जा चेव ठिई सा चेव संचिट्ठणा भाणियव्वा' देवानां यैव स्थितिः प्रागभिहिता सैव 'संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्रया कायस्थितिः सा कथमेकस्मिन् भवे भवति ?, नैष दोषः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावनिरन्तरं भवति ? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं जा ठिई सा चेव संचिट्ठणा |भाणियव्वा' इत्यतिदेश: कृतः ।। तदेवमुक्तं सातत्येनावस्थानमिदानीमन्तरमाह
पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ?, गोयमा! जह० एकं समयं उक्को० वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जह. अंतोमु० उक्को० वणस्सतिकालो एवं जाव ग्वयरतिरिक्वजोणियपुरिसाणं ॥ मणुस्सपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा! खेत्तं
Join Education
For Private
Personel Use Only
N
ainelibrary.org
IRI