SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ SCSCACANCYCLACESCAKA न्या स्थितिद्वौं सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि-नोकषायमोहनीयस्योत्कृष्टा स्थितिविंशतिसागरोपम४ कोटीकोट्यः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे शून्यं शून्येन पातयेत् लब्धौ द्वौ साग रोपमस्य सप्तभागौ तौ पल्योपमासव्येयभागहीनौ क्रियते इति । उत्कृष्टा स्थिति: पञ्चदशसागरोपमकोटीकोट्यः, इह स्थितिर्द्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधा, स्वीवेदस्य चाधिकृतस्योत्कृष्टा स्थिति: पञ्चदश सागरोपमकोटीकोट्यस्ततः पञ्चदश वर्षशतान्यबाधा, तथा चाह-"पण्णरस वाससयाई अबाहा"इति, किमुक्तं भवति ?-स्त्रीवेदकर्म उत्कृष्टस्थितिकं बद्धं सत्स्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्वविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात् , तथा चाह-अबाहूणिया” इत्यादि, 'अबाधोना' अबाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यत: 'अबाधोन:' अबाधाकालपरिहीन: कर्मनिषेक:-कर्मदलिकरचनेति ॥ सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूप: ? इत्यावेदयन्नाह-इत्थिवेए णं भंते!' इत्यादि, स्त्रीवेदो णमिति पूर्ववत् भदन्त ! 'किंप्रकार:' किंवरूपः प्रज्ञाः?, भगवानाह-गौतम ! फुम्फुकाग्निसमानः, फुस्फुकशब्दो देशीत्वात्कारीषवचनस्ततः कारीषाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः, उपसंहारमाह-'सेत्तं इत्थियाओ' ॥ तदेवमुक्ता: स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थमाह से किं तं पुरिसा?, पुरिसा तिविहा पण्णत्ता,तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा॥ से किंतंतिरिक्खजोणियपुरिसा?.२तिविहा पण्णत्ता, तंजहा-जलयराथलयरा खहयरा, Jan Education For Private Personel Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy