SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सागरोपमस्य सार्द्धः सप्तभागः पल्योपमा सङ्ख्येयभागन्यूनः कथमिति चेदुच्यते - इह स्त्रीवेदादीनां कर्मणां स्वस्मान् २ उत्कृष्ट स्थितिबन्धात् मिध्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हृते यल्लभ्यते तत्पल्योपमासस्येयभागन्यूनं जघन्यस्थितिः “सेसाणुकोसाओ मिच्छत्तुकोसएण जं लद्ध "मित्यादिवचनप्रामाण्यात्, तत्र स्त्रीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसागरोपमकोटी कोट्यः, तासां मिध्यात्वस्थित्या भागो हियते शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तात्सप्ततिः, अनयोश्च छेद्यच्छेदकराश्योर्दशभिरपवर्त्तना जात उपर्युकः सार्द्ध: अधस्तात्सत आगतमेकसागरोपमस्य सार्द्ध: सप्तभागः पत्योपमा सङख्येय॥ ६४ ॥ & भागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जघन्यस्थितिपरिमाणं केवलं पस्योपमासइख्येयभागहीनं (न) वक्तव्यं, तन्मतेन "सेसाणुक्कोसाओ मिच्छत्तठिईऍ जं लद्धं" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्य मानत्वात् कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-- " वग्गुकोसठिईणं मिच्छत्तुकोसगेण जं लद्धं ! | सेसाणं तु जहण्णं पलियासंखेज्ञगेणूणं ॥ १ ॥" अस्याक्षरगमनिका -इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीय प्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्ग:, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्र मोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्ग:, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आलीया आलीया उत्कृष्टा स्थिति - स्त्रिंशत्सागरोपमकोटी कोट्यादिका तस्या मिध्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यलभ्यते तत्पल्योपमासङ्कुङ्ख्येयभागन्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थिते: परिमाणमिति, ततस्तन्मतेन स्त्रीवेदस्य ज श्रीजीवाजीवाभि मलयगि रीयावृत्तिः Jain Education For Private & Personal Use Only २ प्रतिपत्तौ स्त्रीवेदव न्धस्थितिः प्रकारश्च सू० ५१ ॥ ६४ ॥ Jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy