SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्ति: ५वक्षस्कारे दिकुमायुत्सवः सू. ११२ ॥३८४|| देहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसदृशकालस्य विद्यमानत्वात् तस्मिन् समये-सर्वत्राप्यर्द्ध- रात्रलक्षणे, तीर्थकराणा हि मध्यरात्र एव जन्मसम्भवात् , अधोलोकवास्तव्या:-चतुर्णा गजदन्तानामधः समभूतला-1 नवशतयोजनरूपां तिर्यग्लोकव्यवस्थां विमुच्य प्रतिगजदन्तं द्विद्विभावेन, तत्र भवनेषु वसनशीलाः, यत्तु गजदन्तानां षष्ठपश्चमकूटेषु पूर्वं गजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयोजनादिपञ्चशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन नन्दनवनकूटगतमेघङ्करादिदिक्कुमारीणामिवोर्ध्वलोकवासित्वापत्तिः। अथ प्रकृतं प्रस्तुमः, अष्टौ दिक्कुमार्यो-दिकुमारभवनपतिजातीया महत्तरिकाः-स्ववर्येषु प्रधानतरिकाः स्वकेषु स्वकेषु कूटषु-गजदन्तादिगिरिवर्तिषु स्वकेषु २ भवनेषु-भवनपतिदेवावासेषु स्वकेषु २ प्रासादावतंसकेषु-स्वस्वकूटवर्तिक्रीडावासेषु, सूत्रे च सप्तम्यर्थे तृतीया प्राकृतत्वात्, प्रत्येकं २ चतुर्भिः सामानिकानां-दिक्कुमारीसदृशातिविभवादिकदेवानां सहस्रः चतसृभिश्च महत्तरिकादिभिः-दिवमारिकातुल्यविभवा-1 भिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः सप्तभिरनीकैः-हस्त्यश्वरथपदातिमहिषगन्धर्वनाव्यरूपैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहरित्यादिकं सर्व विजयदेवाधिकार इव व्याख्येयं, ननु कासाश्चित् दिक्कुमारीणां व्यत्त्या स्थानाङ्गे पल्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपि तथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते', उच्यते, एतासां महर्द्धि ॥३८४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy