SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सुरिन्द'इत्यादि, एवं-धरणेन्द्रन्यायेनासुरेन्द्रौ-चमरबलीन्द्रौ ताभ्यां वर्जितानां भवनवासीन्द्राणां भूतानन्दादीनां वक्त-2 व्यं बोध्यं, नवरं असुराणां-असुरकुमाराणां ओघस्वरा घण्टा नागाना-नागकुमाराणां मेघस्वरा घण्टा सुपर्णानां-18 | गरुडकुमाराणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिकुमाराणां मंजुघोषा उदधिकुमाराणां सुस्वरा द्वीपकुमाराणां मधुरस्वरा वायुकुमाराणां नन्दिस्वरा स्तनितकुमाराणां नन्दिघोषा, एषामेवोक्तानुक्कसामानिकसंअहार्थ गाथामाह-चतुष्पष्टिश्चमरेन्द्रस्य पष्टिवलीन्द्रस्य खलुनिश्चये षट् च सहस्राणि असुरवर्जानां धरणेन्द्रादीनामष्टा| दशभवनवासीन्द्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भिन्नक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भवन्ति, दाक्षिणात्यानां चमरेन्द्रवर्जितानां भवनपतीन्द्राणां भद्रसेनः पदात्यनीकाधिपतिः औत्तराहाणां बलिवर्जितानां दक्षो नाम्ना पदातिपतिः, यच्चात्र घण्टादिकं पूर्व स्वस्वसूत्रे उक्तमप्युक्तं तत्समुदायवाक्ये सर्वसङ्ग्रहार्थमिति । अथ व्यन्तरेन्द्र-1 |ज्योतिष्केन्द्रा:-'वाणमंतर' इत्यादि, व्यन्तरेन्द्रा ज्योतिष्केन्द्राश्च नेतव्याः-शिष्यबुद्धिं प्रापणीयाः एवमेव, यथा भवन|वासिनस्तथैवेत्यर्थः, नवरं चत्वारि सामानिकानां सहस्राणि चतस्रोऽयमहिष्यः षोडश आत्मरक्षकसहस्रा विमानानि योजन| सहस्रमायामविष्कम्भाभ्यां महेन्द्रध्वजः पञ्चविंशत्यधिकयोजनशतं घण्टाश्च दाक्षिणात्यानां मञ्जुस्वरा औत्तराहाणां मञ्जुघोपाः, पदात्यनीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, कोऽर्थः-स्वाम्यादिष्टा हि आभियोगिका देवा घण्टावादनादिकर्मणि विमानविकुर्वणे च प्रवर्तन्ते न पुनहरिनिगमैषिवत्पालकवच्च निर्दिष्टनामका इति, 'व्याख्या विशेषप्रति 5000000000000000000saadaga श्रीजम्बू. ६९ Jain Education in For Private & Personal Use Only NAjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy