SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter श्री तपगणपूर्वागिरिसूरैः श्रीविजय सेनसूरिवरैः । निजहस्तेन वितीर्णा प्रवर्त्तनायै प्रसादपरैः ॥ ४५ ॥ . बहुभिश्च सम्मतेयं कृता तदा विदितसमयतत्त्वार्थैः । श्रीविजयदेवसूरिश्रीवाचकमुख्यगीतार्थैः ॥ ४६ ॥ रत्नानीव प्रमेयानि, नानाशास्त्रखनीनि चेत् । भूयांसि लिप्सवो यूयं, विज्ञरत्नवणिग्वराः ॥ ४७ ॥ श्रीजम्बूद्वीपप्रज्ञप्तेरुपाङ्गस्य सविस्तरा । प्रमेयरलमञ्जूषा, वृत्तिरेषा तदेक्ष्यताम् ॥ ४८ ॥ युग्मम् ॥ श्री शान्तिचन्द्रवाचकशिष्यवरो विबुधरत्नचन्द्रगणिः । अस्या बह्रादर्शानलीलिखद् भक्तियुक्तमनाः ॥ ४९ ॥ वाच्यमाना श्रूयमाणा, गीतार्थैः श्रावकोत्तमैः । शोध्यमाना लेख्यमाना, जीयासुस्ते चिरं भुवि ॥ ५० ॥ तच्छिष्यो धनचन्द्रः स्फुरदुरुधीलिंपिकला विधिवितन्द्रः । अकरोत्प्रथमादर्श सूत्रार्थविवेचने चतुरः ॥ ५१ ॥ इति श्रीशान्तिचन्द्रगणिवाचकविरचितायाः प्रमेयरत्नमंजूषानाश्याः श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तेः प्रशस्तिः सम्पूर्णा ॥ For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy