SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ भवन्तीति नव त्रिंशता गुण्यन्त इत्युपपद्यते यथोक्तसंख्येति । अथ जम्बूद्वीपवर्तिचक्रवर्तिरत्नसंख्यां पिपृच्छिषुराह| 'जम्बहीवे'त्ति, जम्बूद्वीपे २ भदन्त ! कियन्ति पञ्चेन्द्रियरत्नानि-सेनापत्यादीनि सप्त तेषां शतानि सर्वाग्रेण प्रज्ञ पानि?, भगवानाह-गौतम! द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तं मानं, ननु निधिसर्वाग्रपृच्छायां चतुस्त्रिंशता गुणनं पञ्चेन्द्रियरत्नसर्वाग्रपृच्छायां तु किमिति त्रिंशता गुणनं ?, उच्यते, चतुएं वासुदेवविजयेषु तदा तेषामनुपलम्भात् , निधीनां तु नियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रत्नसाग्रसूत्रे रत्नपरिभोगसूत्रे च न कश्चित् संख्याकृतो विशेष इति, अथ रत्नपरिभोगप्रश्नसूत्रमाह-'जम्बुद्दीवे'इत्यादि, प्रायो व्याख्यातत्वाद् व्यक्तं, अथैकेन्द्रियरत्नानि प्रश्नयितुमाह-'जम्बुद्दीवे'त्ति व्यक्तं, नवरं एकेन्द्रियरत्नानि चक्रिणां चक्रादीनि तेषां शतानीति । अथैकेन्द्रियरत्नपरिभोगसूत्रं पृच्छन्नाह-'जम्बुद्दीवे त्ति व्यक्तं ॥ अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह जम्बुद्दीवे णं भन्ते! दीवे केवइ आयामविखंभेणं केवइ परिक्खेवेणं केवइअं उबेहेणं केवइ उद्धं उच्चत्तेणं केवइ सवग्गेणं पं०?, गो० ! जम्बुद्दीवे २ एगं जोअणसयसहस्सं आयामविक्खंभेणं तिणि जोअणसयसहस्साई सोलस य सहस्साई दोणि अ सत्तावीसे जोअणसए तिण्णि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिअं परिक्खेवेणं पं०, एगं जोअणसहस्सं उज्वेहेणं णवणउतिं जोअणसहस्साई साइरेगाई उद्धं उच्चत्तेणं साइरेगं जोअणसयसहस्सं सग्गेणं पण्णत्ते । (सूत्रं १७४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy