SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥५३५ ॥ Jain Education Inte शीतिर्ग्रहाः खलु ज्ञातव्या आनुपूर्व्येति । अथ 'सबेसिं गहाईण' मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह बह्या विहू अ वसू वरुणे अयं वुड्डी पूस आस जमे । अग्गि पयावइ सोमे रुद्दे अदिती वहस्सई सप्पे ॥ १ ॥ पिउ भगअज्जमसवि - आ तट्ठा बाऊ तहेव इंदग्गी । मित्ते इंदे निरुई आऊ विस्सा य बोद्धवे ॥ २ ॥ इति (सूत्रं १७१ ) ब्रह्मा अभिजित् १ विष्णुः श्रवणः २ वसुर्धनिष्ठा ३ वरुणः शतभिषक् ४ अजः पूर्वभाद्रपदा ५ वृद्धिरित्यत्र पदैकदेशे | पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा ६ अन्यत्राहिर्बुन इति, पूषा रेवती ७ अश्वोऽश्विनी ८ यमो भरणि ९ अग्निः कृत्तिका १० प्रजापती रोहिणी ११ सोमो मृगशिरः १२ रुद्र आर्द्रा १३ अदितिः पुनर्वसुः १४ बृहस्पतिः पुष्यः १५ सर्पोऽश्लेषा १६ पिता मघा १७ भगः पूर्वफाल्गुनी १८ अर्थमा उत्तराफाल्गुनी १९ सविता हस्तः २० त्वष्टा चित्रा २१ वायुः स्वातिः २२ इंद्राग्नी विशाखा २३ मित्रोऽनुराधा २४ इन्द्रो ज्येष्ठा २५ निर्ऋतिर्मूलं २६ आपः पूर्वाषाढा २७ विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्यानि, ननु स्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देवतानामभिर्नक्षत्रनामानि संपद्येरन् ?, उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति एतेषां चाष्टाविंशतेरपि नक्षत्राणां विजयादिनामभिरेव पूर्वोक्ताश्चतस्रोऽग्रमहिष्यो वक्तव्या इति । तारकाणां च सपञ्चसप्ततिसहस्राधिकषट्षष्टिकोटाकोटीप्रमाणत्वेन बहुसंख्याकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतस्रोऽग्रमहिष्यो For Private & Personal Use Only ७वक्षस्कारे नक्षत्राधि छातारः सू. १७१ ॥५३५॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy