________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥५३४॥
उक्तमेव विशिष्य आह - 'छावत्तर' इत्यादि, षट्सप्तत्यधिकस्य ग्रहशतस्यापि जम्बूद्वीपवर्त्तिचन्द्रद्वयपरिवारभूतानां | ग्रहाणां द्विगुणिताया अष्टाशीतेरित्यर्थः, एता - अनन्तरोक्ता विजयाद्या अग्रमहिष्यो वक्तव्याः इमाभिर्वक्ष्यमाणाभिर्गाधाभिरुक्तनामभिः इति गम्यं, इदं च ग्रहशतस्य विशेषणं बोध्यं, अत्र सूत्रादर्शे प्रथमदृष्टमपि नक्षत्र देवतसूत्रमुपेक्ष्य क्रमप्राधान्याद् व्याख्यानस्येति प्रथममष्टाशीतिग्रहनामसूत्रं व्याख्यायते - 'इंगालए' इत्यादि, अङ्गारकः १ विकालकः २ लोहिताङ्कः ३ शनैश्वरः ४ आधुनिक: ५ प्राधुनिकः ६ कनकेन सह एकदेशेन समानं नाम येषां ते कनकसमाननामानस्ते | पश्चैव प्रागुक्तसङ्ख्या परिपाठ्या योजनीयाः, तद्यथा - कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्ता| नक: ११ 'सोमेत्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः | १८ शंखसमाननामानो नानि शंखशब्दाङ्किता इत्यर्थः ते त्रयः, तद्यथा - शंखः १९ शंखनाभः २० शंखवर्णाभः २१ ' एवं ' उक्तेन प्रकारेण भणितव्यं, प्रत्येकमग्रमहिषीसंख्याकथनाय अष्टाशीतेग्रहाणां नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत् भावकेतोर्ग्रहस्याग्रमहिष्यः, यावत्करणात् इदं द्रष्टव्यं तिष्णेव कंसनामा णीले रुप्पि अ हवंति चत्तारि । भावतिलपुष्पवण्णे दगदगवण्णे य कायवंधे य ॥ ३ ॥ इंदग्गिधूमकेऊ हरिपिंगलए बुहे अ सुक्के अ । वहस्सइराहु अगत्थी | माणवगे कामफासे अ ||४|| धुरए पमुहे वियडे विसंधि कप्पे तहा पयले य । जडियालए य अरुणे अग्गिलकाले महा| काले ||५|| सोत्थि सोवत्थिअए वद्धमाणग तहा पलंबे अ । णिच्चालोए णिच्चुज्जोए सयंपभे चेत्र ओभासे ॥ ६ ॥ सेयं
Jain Education International
For Private & Personal Use Only
७वक्षस्कारे अग्रमहियो ग्रहाथ स्थितिः सू.
१७०
॥५३४॥
www.jainelibrary.org