________________
Jain Education
| सशिरेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जाते द्वे शते अष्टचत्वारिंशदधिके २४८ ताभ्यां मध्यो राशिरेककरूपो गुण्यते जाते ते एव द्वे शते अष्टचत्वारिंशदधिके २४८ तयोराद्येन राशिना चतुष्करूपेण भागहरणं लब्धा द्वाषष्टिः ६२, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह - ' एतेसि ण'|मित्यादि, एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं वक्ष्यमाणा संग्रहणीगाथा, तद्यथा - ' जोगो देवय तारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनार्थं पुनरुपन्यासस्तेन न पुनरुक्तिर्भावनीयेति, यत्तु पूर्वमुद्देशसमये सन्नि | पातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारं तद्विचित्रत्वात् सूत्रकाराणां प्रवृत्तेः, पूर्णिमामावास्याद्वारे सन्निपात| द्वारमन्तर्भावितं छायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् । अथास्मिन्नेवाधिकारे षोडशभिर्द्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाह -
हिहिं ससिपरिवारो मन्दरऽबाधा तहेव लोंगंते । धरणितलाओं अबाधा अंतो बाहिं च उद्धमुहे ॥ १ ॥ संठाणं च माणं व सीहगई इद्धिमन्ता य । तारंतरऽग्गमहिसी तुडिअ पहु ठिई अ अप्पबहू ॥ २ ॥ अत्थि णं भन्ते ! चंदिमसूरिआणं हिट्ठिपि तारारूवा अणुंपि तुलावि समेवि तारारूवा अणुपितुल्लावि उप्पिपि तारारूवा अणुपि तुझावि ?, हंता ! गो० ! तं चैव उच्चारेअवं, से केणट्टेणं भन्ते ! एवं वुञ्चइ -- अस्थि णं० जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि ऊसिआई भवसि तहा तहाणं ि देवाणं एवं पण्णायए तंजहा - अणुत्ते वा तुल्लत्ते वा, जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि णो ऊसिआइ भवंति तहा तहा
tional
For Private & Personal Use Only
www.jainelibrary.org