________________
विवक्षितत्वेन ज्येष्ठापि सङ्ग्रहीता, यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिद्भेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषाढे-पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येक चतुस्तारे, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो दे द्वे बहिः, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमर्दै योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिग्व्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युंक्त इत्युक्तं, अनेन चाषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्कमिति वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भवादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थ किञ्चिदाह-ते च नक्षत्रे सदा सर्ववाह्ये मण्डले व्यवस्थिते चन्द्रेण सह सह योगमयुक्तां युक्तो योक्ष्यते इति, तथा यत्तन्नक्षत्रं यत् सदा चन्द्रस्य प्रमर्द-प्रमर्दरूपं योगं युनक्कि एका सा ज्येष्ठा । अथ देवताद्वारमाह___ एतेसि णं भन्ते! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंदेवयाए पण्णत्ते ?, गो० ! बम्हदेवया पण्णत्ते, सवणे णक्खत्ते विण्हु• देवयाए पण्णत्ते, धणिहा वसुदेवया पण्णत्ता, एए णं कमेणं अवा अणुपरिवाडी इमाओ देवयाओ-बम्हा विण्हु वसू वरुणे अय
अभिवद्धी पूसे आसे जमे अग्गी पयावई सोमे रुहे अदिती वहस्सई सप्पे पिउ भगे अजम सविआ तहा वाउ इंदग्गी मित्तो इंदे
Jain Education inarvalina
For Private & Personel Use Only
INIw.jainelibrary.org