SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सूर्यदक्षिणायनस्य चन्द्रोत्तरायणस्य च युगपत् प्रवृत्तिर्युगस्यादावेव सोऽपि-चन्द्रायणस्याभिजिद्योगप्रथमसमय एव सूरायणस्य तु पुष्यस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्वमिति, तथा दक्षिणायन-संवत्सरस्य प्रथमे पण्मासास्तदादिर्ययोस्ते तथा, आदित्वं चास्य युगप्रारम्भे प्रथमतः प्रवृत्तत्वात्, एतच्च सूर्यायनापेक्षं वचनं, चन्द्रायनापेक्षया तु उत्तरायणस्यादिता वक्तव्या स्यात् , युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्त्वात् , प्रावृऋतुः-आषाढश्रावणरूपमासद्वयात्मक आदिर्येषां ते प्रावृडादिका ऋतवः, युगादौ ऋत्वेकदेशस्य श्रावणमासस्य प्रवर्त्तमानत्वात् , एवं श्रावणादिका मासाः प्रागुक्तहेतोरेव, बहुलपक्षादिको पक्षौ श्रावणबहुलपक्ष एव युगादिप्रवृत्तेः, दिवसादिका अहोरात्राः, | मेरुतो दक्षिणोत्तरयोः सूर्योदय एव युगप्रतिपत्तेः, भरतैरवतापेक्षया इदं वचनं, विदेहापेक्षया तु रात्रौ तत्प्रवृत्तेः, तथा रुद्रस्त्रिंशतो मुहूर्तानां मध्ये प्रथमः स आदिर्येषां ते तथा प्रातस्तस्यैव प्रवृत्तः, तथा बालवादिकानि करणानि, बहुलप्रतिपद्दिवसे तस्यैव सम्भवात् , तथाऽभिजिदादिकानि नक्षत्राणि, तत एवारभ्य नक्षत्राणां क्रमेण युगे प्रवर्त्तमानत्वात् , तथाहि-उत्तराषाढानक्षत्रचरमसमयपाश्चात्ये युगस्यान्तः ततोऽभिनवयुगस्यादिनक्षत्रमभिजिदेवेति, हे श्रमण! हे आयुमन् !, अन्ते च सम्बोधनं शिष्यस्य पुनः प्रश्नविषयकोद्यमविधापनार्थ अत एवोल्लसन्मना युगे युगेऽयनादिप्रमाणं पृच्छति-पंचसंवच्छरिए णं भन्ते ! जुगे' इत्यादि, पञ्च संवत्सरा सौरा मानमस्येति पञ्चसंवत्सरिकं युगं, अनेन नोत्तरसूत्रेण दश अयना इत्यादिकेन विरोधः, चन्द्रसंवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिकशतस्य सम्भवात्, तत्र Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy