SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तिथिर्नवमी रात्रिः शुभनामा पूर्णातिथिदशमी रात्रिः, पुनरपि उग्रवती नन्दातिथिरेकादशी रात्रिः भोगवती भद्रातिथिदशी रात्रिः यशोमती जयातिथिस्त्रयोदशी रात्रिः सर्वसिद्धा तुच्छा तिथिश्चतुर्दशी रात्रिः शुभनामा पूर्णातिथिः पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्त्या पंचदश (दिन) तिथयो भवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्त्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्तानि गणयितुं पृच्छति-'एगमेगस्स 'मित्यादि, एकैकस्य भदन्त! अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः?, गौतम! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथा-प्रथमो रुद्रः द्वितीयः श्रेयान् । तृतीयो मित्रः चतुर्थो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहुसत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एकविंशतितमो गन्धर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशति-15 तम ऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थः त्रिंशत्तमो राक्षसः॥ अथ तिथिप्रतिबद्धत्वात्करणानां तत्स्वरूपप्रश्नमाह___ कति णं भन्ते! करणा पण्णत्ता, गोअमा! एक्कारस करणा पण्णत्ता, तंजहा-बवं बालवं कोलवं थीविलोअणं गराइ वणिज विट्ठी सउणी चउप्पयं नागं किंत्थुग्धं, एतेसि णं भन्ते! एक्कारसहं करणाणं कति करणा चरा कति करणा थिरा पण्णता?, DEEkkseeeeeeeeeeeek श्रीजम्बू.८३ in Eduet an In For Private & Personel Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy