________________
प्रज्ञप्तानि?, गौतम! पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-प्रथमः पूर्वाङ्गो द्वितीयः सिद्धमनोरमस्तृतीयः मनोहरः चतुर्थों यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिक्तोऽष्टमः सौमनसो नवमो धनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिवसानां भवन्ति नामधेयानि इति। सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह-'एतेसि ण'मित्यादि, एतेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति तिथयः प्रज्ञप्ताः?, गौतम! पञ्चदश तिथयः प्रज्ञप्ताः, तद्यथा-नन्दो भद्रो जयस्तुच्छोऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुंसि निर्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योतिकरण्डकसूर्यप्रज्ञप्तिवृत्त्यादौ तु नन्दा भद्रा जया इत्यादिस्त्रीलिङ्गनिर्देशेन संस्कारो दृश्यते, स च पूर्णः पञ्चदश तिथ्यात्मकस्य पक्षस्य पञ्चमी इति रूढः, एतेन पञ्चमीतः परेषां षष्ट्यादितिथीना नन्दादिक्रमेणैव पुनरावृत्तिर्दर्शिता, तथैव सूत्रे आह-पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि || नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य पञ्चदशी, उक्तमर्थ निगमयति-एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्का नन्दाद्याः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां-पञ्चदशानामपि दिवसानां भवन्ति, एताश्च दिवसतिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिविशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं?, उच्यते, सूर्यचारकृतो दिवसः स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथिः, कथमिति चेत्, उच्यते, पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाप
Jain Education Inter
For Private
Personel Use Only
Kirainelibrary.org