________________
18 ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा
पूर्वाचार्यप्रदर्शितेयं करणगाथा “चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स । तीसइगुणिओ संतो हवइ हु अहि18 मासगो इक्को ॥१॥" अस्या अक्षरगमनिका-आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति 8
विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्वत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यते ततः स्थितं पश्चादिनमेकमेकेन द्वापष्टिभागेन न्यूनं तच्च दिनं त्रिंशता गुण्यते जातानि त्रिंशदिनानि | एकश्च द्वाषष्टिभागस्त्रिंशता गुणितो जाताः त्रिंशद् द्वापष्टिभागास्ते त्रिंशदिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वापष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्ठिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च-"सट्ठीए अइआए हवइ हु अहिमासगो जुगळूमि। बावीसे पवसए हवइ अबीओ जुगंतंमि ॥१॥" अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्ठौ अतीतायां-पष्ठिसङ्ख्येषु पक्षेष्व
तिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगाढ़ें-युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशेश्रीजम्बू. ८२ द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक
MPOSE8Odeeeeeeeeeeeeeececen
Jain Education in
For Private Personal use only
iainelibrary.org