SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ __ 'कइणं भन्ते!'इत्यादि, कति भदन्त! नक्षत्रमण्डलानि प्रज्ञप्तानि?, गौतम! अष्ट नक्षत्रमण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्वेतावत्स्वेव सञ्चरणात् , यथा चैतेषु सञ्चरणं तथा निरूपयिष्यति, एतदेव क्षेत्रविभागेन प्रश्नयति-जम्बूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि?, गौतम! जम्बूद्वीपे द्वीपे अशीतंअशीत्यधिक योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते, लवणसमुद्रे कियदवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञसानि?, गौतम! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि, अत्रोपसंहारवाक्येनोक्तसङ्ख्यां मीलयति-एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति इत्याख्यातं, मकारोऽत्रागमिकः। अथ मण्डलचारक्षेत्रप्ररूपणा-'सबभन्तरा'इत्यादि, सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम्, गौतम! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञ. तं, इदं च सूत्रं नक्षत्रजात्यपेक्षया बोद्धव्यं, अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात् , तेनायमर्थः सम्पन्नः-सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्य नक्षत्रमण्डल जातीयं इयत्या अबाधया प्रज्ञप्तमिति बोध्यं । अथाभ्यन्तरादिमण्डलस्थायिनामष्टाविंशतेनक्षत्राणां परस्परमन्तरनिरूपणाISणक्खत्त'इत्यादि, नक्षत्रमण्डलस्य-नक्षत्रविमानस्य नक्षत्रविमानस्य च भदन्त ! कियत्या अबाधया अन्तरं प्रज्ञतम् ', गौत-19 |म द्वे योजने नक्षत्रविमानस्य नक्षत्रविमानस्य चाबाधयाऽन्तरं प्रज्ञप्तम्. अयमर्थः-अष्टास्वपि मण्डलेषु यत्र २ मण्डले यावश्रीजम्बू, ८. 920000000000000000000cean202929 RE Jain Education Inte For Private & Personal Use Only Karjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy