________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४७३॥
Jain Education In
प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पश्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैः सप्तभिः शतैः पश्चविंशत्यधिकैः छित्त्वा अत्रोपपत्तिः-अत्र मण्डले परिरयप्रमाणं ३१७८५५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२४५९५५ एषां १३७२५ एभिर्भागे हृते लब्धं ५११८ शेषं भागा । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु' इत्यादि, एतेनोपायेन यावच्छब्दात् | 'पविसमाणे चन्दे तयाणन्तराओ मण्डलाओ तयणन्तरं मण्डल' मिति ग्राह्यं, संक्रामन् २ त्रीणि योजनानि षण्णवर्ति च पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्त्तगतिं निवर्द्धयन् २ सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, उपपत्तिः पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोर्दृष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अत्र ग्रन्थे चन्द्रप्रज्ञप्तिबृहत् क्षेत्रसमासवृत्त्यादिषु च पूर्वैः क्वापि न दर्शिता तेनात्र न दर्श्यत इति । अथ नक्षत्राधिकारः, | तत्राष्टौ द्वाराणि यथा मण्डलसङ्ख्याप्ररूपणा १ मण्डलचारक्षेत्र प्ररूपणा २ अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेनं| क्षत्राणां परस्परमन्तरनिरूपणा ३ नक्षत्रविमानानामायामादिनिरूपणं ४ नक्षत्रमण्डलानां मेरुतोऽवाधानिरूपण ५ तेषा| मेवायामादिनिरूपणं ६ मुहूर्त्तगतिप्रमाणनिरूपणं ७ नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं ८ । तत्रादौ मण्डलसङ्ख्याप्ररूपणाप्रश्नमाह
For Private & Personal Use Only
७वक्षस्कारे चन्द्रमुहूर्त्त - गतिः सू. १४८
1180311
www.jainelibrary.org