________________
कालसमापनात्, अथ तद्भदन्त ! स्वविषयं-स्वोचितं क्षेत्रं गच्छतः उत अविषयं वा स्वानुचितमित्यर्थः, गौतम ! स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं-अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणां गमनायोग्यत्वात् , तद्भदन्त ! आनुपूर्व्या-क्रमेण यथासन्नं गच्छतः उत अनानुपूर्व्या-क्रमेणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, गौतम ! आनुपूर्व्या गच्छतः नानानुपूर्व्या व्यवस्थाहानेः, प्रागुक्तमेव दिक्प्रश्नं व्यक्त्या आह-तद्भदन्त ! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत् षदिग्विषयकं ?, गौतम! नियमात् षड्दिशि, तत्र पूर्वादिषु तिर्यग्दिक्षु उदितः । सन् स्फुटमेव गच्छन् दृश्यते, ऊर्ध्वाधोदिग्गमनं च यथोपपद्यते तथा प्राग्दर्शितं । सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-एवं ओभासेंति'इत्यादि, 'एव'मिति गमनसूत्रप्रकारेण अवभासयतः-ईषदुद्योतयतः, यथा स्थूरतरमेव
दृश्यते, तमेव प्रकारमीषदर्शयति-तद्भदन्त! क्षेत्रं स्पृष्ट-सूर्यस्तेजसा व्याप्त अवभासयतः उतास्पृष्टं ?, भगवानाह-- ४) स्पृष्टं नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्शपूर्वकमेवावभासकत्वदर्शनात् , एवं-स्पृष्टपदरीत्या आहार-||
पदानि-चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि-द्वाराणि नेतव्यानि, तद्यथा--'पुट्ठो'इत्यादि, प्रथमतः स्पृष्टविषयं सूत्र, ततोऽवगाढसूत्रं ततोऽणुवादरसूत्रं तत ऊर्ध्वाधःप्रभृतिसूत्रं, तत आई इति उपलक्षणमेतत् ६ आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं, ततो यावत् नियमात् षड्दिशीति सूत्रं, अत्र यथासम्भवं विपक्षसूत्राण्युपलक्षणाद् ज्ञेयानि, अत्र चोर्धादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुद्द्योतयतो-भृशं ४
Jain Education Intematiana
For Private & Personel Use Only
ww.jainelibrary.org